भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.027

5.027.01

अनस्वन्ता सत्पतिर् मामहे मे गावा चेतिष्ठो असुरो मघोनः ।
त्रैवृष्णो अग्ने दशभिः सहस्रैर् वैश्वानर त्र्यरुणश् चिकेत ॥

5.027.02

यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति ।
वैश्वानर सुष्टुतो वावृधानो ऽग्ने यच्छ त्र्यरुणाय शर्म ॥

5.027.03

एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः ।
यो मे गिरस् तुविजातस्य पूर्वीर् युक्तेनाभि त्र्यरुणो गृणाति ॥

5.027.04

यो म इति प्रवोचत्य् अश्वमेधाय सूरये ।
ददद् ऋचा सनिं यते ददन् मेधाम् ऋतायते ॥

5.027.05

यस्य मा परुषाः शतम् उद्धर्षयन्त्य् उक्षणः ।
अश्वमेधस्य दानाः सोमा इव त्र्याशिरः ॥

5.027.06

इन्द्राग्नी शतदाव्न्य् अश्वमेधे सुवीर्यम् ।
क्षत्रं धारयतम् बृहद् दिवि सूर्यम् इवाजरम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc