ऋग्वेद · अध्याय 5.013
अर्चन्तस् त्वा हवामहे ऽर्चन्तः सम् इधीमहि ।
अग्ने अर्चन्त ऊतये ॥
अग्नेः स्तोमम् मनामहे सिध्रम् अद्य दिविस्पृशः ।
देवस्य द्रविणस्यवः ॥
अग्निर् जुषत नो गिरो होता यो मानुषेष्व् आ ।
स यक्षद् दैव्यं जनम् ॥
त्वम् अग्ने सप्रथा असि जुष्टो होता वरेण्यः ।
त्वया यज्ञं वि तन्वते ॥
त्वाम् अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् ।
स नो रास्व सुवीर्यम् ॥
अग्ने नेमिर् अराँ इव देवाँस् त्वम् परिभूर् असि ।
आ राधश् चित्रम् ऋञ्जसे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0