भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.012

5.012.01

प्राग्नये बृहते यज्ञियाय ऋतस्य वृष्णे असुराय मन्म ।
घृतं न यज्ञ आस्ये3 सुपूतं गिरम् भरे वृषभाय प्रतीचीम् ॥

5.012.02

ऋतं चिकित्व ऋतम् इच् चिकिद्ध्य् ऋतस्य धारा अनु तृन्धि पूर्वीः ।
नाहं यातुं सहसा न द्वयेन ऋतं सपाम्य् अरुषस्य वृष्णः ॥

5.012.03

कया नो अग्न ऋतयन्न् ऋतेन भुवो नवेदा उचथस्य नव्यः ।
वेदा मे देव ऋतुपा ऋतूनां नाहम् पतिं सनितुर् अस्य रायः ॥

5.012.04

के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त द्युमन्तः ।
के धासिम् अग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः ॥

5.012.05

सखायस् ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन् ।
अधूर्षत स्वयम् एते वचोभिर् ऋजूयते वृजिनानि ब्रुवन्तः ॥

5.012.06

यस् ते अग्ने नमसा यज्ञम् ईट्ट ऋतं स पात्य् अरुषस्य वृष्णः ।
तस्य क्षयः पृथुर् आ साधुर् एतु प्रसर्स्राणस्य नहुषस्य शेषः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc