ऋग्वेद · अध्याय 5.011
जनस्य गोपा अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे ।
घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः ॥
यज्ञस्य केतुम् प्रथमम् पुरोहितम् अग्निं नरस् त्रिषधस्थे सम् ईधिरे ।
इन्द्रेण देवैः सरथं स बर्हिषि सीदन् नि होता यजथाय सुक्रतुः ॥
असम्मृष्टो जायसे मात्रोः शुचिर् मन्द्रः कविर् उद् अतिष्ठो विवस्वतः ।
घृतेन त्वावर्धयन्न् अग्न आहुत धूमस् ते केतुर् अभवद् दिवि श्रितः ॥
अग्निर् नो यज्ञम् उप वेतु साधुयाग्निं नरो वि भरन्ते गृहे-गृहे ।
अग्निर् दूतो अभवद् धव्यवाहनो ऽग्निं वृणाना वृणते कविक्रतुम् ॥
तुभ्येदम् अग्ने मधुमत्तमं वचस् तुभ्यम् मनीषा इयम् अस्तु शं हृदे ।
त्वां गिरः सिन्धुम् इवावनीर् महीर् आ पृणन्ति शवसा वर्धयन्ति च ॥
त्वाम् अग्ने अङ्गिरसो गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वने-वने ।
स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0