भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.010

5.010.01

अग्न ओजिष्ठम् आ भर द्युम्नम् अस्मभ्यम् अध्रिगो ।
प्र नो राया परीणसा रत्सि वाजाय पन्थाम् ॥

5.010.02

त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना ।
त्वे असुर्य1म् आरुहत् क्राणा मित्रो न यज्ञियः ॥

5.010.03

त्वं नो अग्न एषां गयम् पुष्टिं च वर्धय ।
ये स्तोमेभिः प्र सूरयो नरो मघान्य् आनशुः ॥

5.010.04

ये अग्ने चन्द्र ते गिरः शुम्भन्त्य् अश्वराधसः ।
शुष्मेभिः शुष्मिणो नरो दिवश् चिद् येषाम् बृहत् सुकीर्तिर् बोधति त्मना ॥

5.010.05

तव त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुया ।
परिज्मानो न विद्युतः स्वानो रथो न वाजयुः ॥

5.010.06

नू नो अग्न ऊतये सबाधसश् च रातये ।
अस्माकासश् च सूरयो विश्वा आशास् तरीषणि ॥

5.010.07

त्वं नो अग्ने अङ्गिरः स्तुतः स्तवान आ भर ।
होतर् विभ्वासहं रयिं स्तोतृभ्यः स्तवसे च न उतैधि पृत्सु नो वृधे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc