ऋग्वेद · अध्याय 5.009
त्वाम् अग्ने हविष्मन्तो देवम् मर्तास ईळते ।
मन्ये त्वा जातवेदसं स हव्या वक्ष्य् आनुषक् ॥
अग्निर् होता दास्वतः क्षयस्य वृक्तबर्हिषः ।
सं यज्ञासश् चरन्ति यं सं वाजासः श्रवस्यवः ॥
उत स्म यं शिशुं यथा नवं जनिष्टारणी ।
धर्तारम् मानुषीणां विशाम् अग्निं स्वध्वरम् ॥
उत स्म दुर्गृभीयसे पुत्रो न ह्वार्याणाम् ।
पुरू यो दग्धासि वनाग्ने पशुर् न यवसे ॥
अध स्म यस्यार्चयः सम्यक् संयन्ति धूमिनः ।
यद् ईम् अह त्रितो दिव्य् उप ध्मातेव धमति शिशीते ध्मातरी यथा ॥
तवाहम् अग्न ऊतिभिर् मित्रस्य च प्रशस्तिभिः ।
द्वेषोयुतो न दुरिता तुर्याम मर्त्यानाम् ॥
तं नो अग्ने अभी नरो रयिं सहस्व आ भर ।
स क्षेपयत् स पोषयद् भुवद् वाजस्य सातय उतैधि पृत्सु नो वृधे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0