ऋग्वेद · अध्याय 5.008
त्वाम् अग्न ऋतायवः सम् ईधिरे प्रत्नम् प्रत्नास ऊतये सहस्कृत ।
पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥
त्वाम् अग्ने अतिथिम् पूर्व्यं विशः शोचिष्केशं गृहपतिं नि षेदिरे ।
बृहत्केतुम् पुरुरूपं धनस्पृतं सुशर्माणं स्ववसं जरद्विषम् ॥
त्वाम् अग्ने मानुषीर् ईळते विशो होत्राविदं विविचिं रत्नधातमम् ।
गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घृतश्रियम् ॥
त्वाम् अग्ने धर्णसिं विश्वधा वयं गीर्भिर् गृणन्तो नमसोप सेदिम ।
स नो जुषस्व समिधानो अङ्गिरो देवो मर्तस्य यशसा सुदीतिभिः ॥
त्वम् अग्ने पुरुरूपो विशे-विशे वयो दधासि प्रत्नथा पुरुष्टुत ।
पुरूण्य् अन्ना सहसा वि राजसि त्विषिः सा ते तित्विषाणस्य नाधृषे ॥
त्वाम् अग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम् ।
उरुज्रयसं घृतयोनिम् आहुतं त्वेषं चक्षुर् दधिरे चोदयन्मति ॥
त्वाम् अग्ने प्रदिव आहुतं घृतैः सुम्नायवः सुषमिधा सम् ईधिरे ।
स वावृधान ओषधीभिर् उक्षितो3 ऽभि ज्रयांसि पार्थिवा वि तिष्ठसे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0