भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.007

5.007.01

सखायः सं वः सम्यञ्चम् इषं स्तोमं चाग्नये ।
वर्षिष्ठाय क्षितीनाम् ऊर्जो नप्त्रे सहस्वते ॥

5.007.02

कुत्रा चिद् यस्य समृतौ रण्वा नरो नृषदने ।
अर्हन्तश् चिद् यम् इन्धते संजनयन्ति जन्तवः ॥

5.007.03

सं यद् इषो वनामहे सं हव्या मानुषाणाम् ।
उत द्युम्नस्य शवस ऋतस्य रश्मिम् आ ददे ॥

5.007.04

स स्मा कृणोति केतुम् आ नक्तं चिद् दूर आ सते ।
पावको यद् वनस्पतीन् प्र स्मा मिनात्य् अजरः ॥

5.007.05

अव स्म यस्य वेषणे स्वेदम् पथिषु जुह्वति ।
अभीम् अह स्वजेन्यम् भूमा पृष्ठेव रुरुहुः ॥

5.007.06

यम् मर्त्यः पुरुस्पृहं विदद् विश्वस्य धायसे ।
प्र स्वादनम् पितूनाम् अस्ततातिं चिद् आयवे ॥

5.007.07

स हि ष्मा धन्वाक्षितं दाता न दात्य् आ पशुः ।
हिरिश्मश्रुः शुचिदन्न् ऋभुर् अनिभृष्टतविषिः ॥

5.007.08

शुचिः ष्म यस्मा अत्रिवत् प्र स्वधितीव रीयते ।
सुषूर् असूत माता क्राणा यद् आनशे भगम् ॥

5.007.09

आ यस् ते सर्पिरासुते ऽग्ने शम् अस्ति धायसे ।
ऐषु द्युम्नम् उत श्रव आ चित्तम् मर्त्येषु धाः ॥

5.007.10

इति चिन् मन्युम् अध्रिजस् त्वादातम् आ पशुं ददे ।
आद् अग्ने अपृणतो ऽत्रिः सासह्याद् दस्यून् इषः सासह्यान् नॄन् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc