भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.004

5.004.01

त्वाम् अग्ने वसुपतिं वसूनाम् अभि प्र मन्दे अध्वरेषु राजन् ।
त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर् मर्त्यानाम् ॥

5.004.02

हव्यवाळ् अग्निर् अजरः पिता नो विभुर् विभावा सुदृशीको अस्मे ।
सुगार्हपत्याः सम् इषो दिदीह्य् अस्मद्र्य1क् सम् मिमीहि श्रवांसि ॥

5.004.03

विशां कविं विश्पतिम् मानुषीणां शुचिम् पावकं घृतपृष्ठम् अग्निम् ।
नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि ॥

5.004.04

जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य ।
जुषस्व नः समिधं जातवेद आ च देवान् हविरद्याय वक्षि ॥

5.004.05

जुष्टो दमूना अतिथिर् दुरोण इमं नो यज्ञम् उप याहि विद्वान् ।
विश्वा अग्ने अभियुजो विहत्या शत्रूयताम् आ भरा भोजनानि ॥

5.004.06

वधेन दस्युम् प्र हि चातयस्व वयः कृण्वानस् तन्वे3 स्वायै ।
पिपर्षि यत् सहसस् पुत्र देवान्त् सो अग्ने पाहि नृतम वाजे अस्मान् ॥

5.004.07

वयं ते अग्न उक्थैर् विधेम वयं हव्यैः पावक भद्रशोचे ।
अस्मे रयिं विश्ववारं सम् इन्वास्मे विश्वानि द्रविणानि धेहि ॥

5.004.08

अस्माकम् अग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यम् ।
वयं देवेषु सुकृतः स्याम शर्मणा नस् त्रिवरूथेन पाहि ॥

5.004.09

विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि ।
अग्ने अत्रिवन् नमसा गृणानो3 ऽस्माकम् बोध्य् अविता तनूनाम् ॥

5.004.10

यस् त्वा हृदा कीरिणा मन्यमानो ऽमर्त्यम् मर्त्यो जोहवीमि ।
जातवेदो यशो अस्मासु धेहि प्रजाभिर् अग्ने अमृतत्वम् अश्याम् ॥

5.004.11

यस्मै त्वं सुकृते जातवेद उ लोकम् अग्ने कृणवः स्योनम् ।
अश्विनं स पुत्रिणं वीरवन्तं गोमन्तं रयिं नशते स्वस्ति ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc