ऋग्वेद · अध्याय 5.003
त्वम् अग्ने वरुणो जायसे यत् त्वम् मित्रो भवसि यत् समिद्धः ।
त्वे विश्वे सहसस् पुत्र देवास् त्वम् इन्द्रो दाशुषे मर्त्याय ॥
त्वम् अर्यमा भवसि यत् कनीनां नाम स्वधावन् गुह्यम् बिभर्षि ।
अञ्जन्ति मित्रं सुधितं न गोभिर् यद् दम्पती समनसा कृणोषि ॥
तव श्रिये मरुतो मर्जयन्त रुद्र यत् ते जनिम चारु चित्रम् ।
पदं यद् विष्णोर् उपमं निधायि तेन पासि गुह्यं नाम गोनाम् ॥
तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतं सपन्त ।
होतारम् अग्निम् मनुषो नि षेदुर् दशस्यन्त उशिजः शंसम् आयोः ॥
न त्वद् धोता पूर्वो अग्ने यजीयान् न काव्यैः परो अस्ति स्वधावः ।
विशश् च यस्या अतिथिर् भवासि स यज्ञेन वनवद् देव मर्तान् ॥
वयम् अग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः ।
वयं समर्ये विदथेष्व् अह्नां वयं राया सहसस् पुत्र मर्तान् ॥
यो न आगो अभ्य् एनो भरात्य् अधीद् अघम् अघशंसे दधात ।
जही चिकित्वो अभिशस्तिम् एताम् अग्ने यो नो मर्चयति द्वयेन ॥
त्वाम् अस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजन्त हव्यैः ।
संस्थे यद् अग्न ईयसे रयीणां देवो मर्तैर् वसुभिर् इध्यमानः ॥
अव स्पृधि पितरं योधि विद्वान् पुत्रो यस् ते सहसः सून ऊहे ।
कदा चिकित्वो अभि चक्षसे नो ऽग्ने कदाँ ऋतचिद् यातयासे ॥
भूरि नाम वन्दमानो दधाति पिता वसो यदि तज् जोषयासे ।
कुविद् देवस्य सहसा चकानः सुम्नम् अग्निर् वनते वावृधानः ॥
त्वम् अङ्ग जरितारं यविष्ठ विश्वान्य् अग्ने दुरिताति पर्षि ।
स्तेना अदृश्रन् रिपवो जनासो ऽज्ञातकेता वृजिना अभूवन् ॥
इमे यामासस् त्वद्रिग् अभूवन् वसवे वा तद् इद् आगो अवाचि ।
नाहायम् अग्निर् अभिशस्तये नो न रीषते वावृधानः परा दात् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0