ऋग्वेद · अध्याय 5.005
सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन ।
अग्नये जातवेदसे ॥
नराशंसः सुषूदतीमं यज्ञम् अदाभ्यः ।
कविर् हि मधुहस्त्यः ॥
ईळितो अग्न आ वहेन्द्रं चित्रम् इह प्रियम् ।
सुखै रथेभिर् ऊतये ॥
ऊर्णम्रदा वि प्रथस्वाभ्य् अ1र्का अनूषत ।
भवा नः शुभ्र सातये ॥
देवीर् द्वारो वि श्रयध्वं सुप्रायणा न ऊतये ।
प्र-प्र यज्ञम् पृणीतन ॥
सुप्रतीके वयोवृधा यह्वी ऋतस्य मातरा ।
दोषाम् उषासम् ईमहे ॥
वातस्य पत्मन्न् ईळिता दैव्या होतारा मनुषः ।
इमं नो यज्ञम् आ गतम् ॥
इळा सरस्वती मही तिस्रो देवीर् मयोभुवः ।
बर्हिः सीदन्त्व् अस्रिधः ॥
शिवस् त्वष्टर् इहा गहि विभुः पोष उत त्मना ।
यज्ञे-यज्ञे न उद् अव ॥
यत्र वेत्थ वनस्पते देवानां गुह्या नामानि ।
तत्र हव्यानि गामय ॥
स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्यः ।
स्वाहा देवेभ्यो हविः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0