भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.002

5.002.01

कुमारम् माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे ।
अनीकम् अस्य न मिनज् जनासः पुरः पश्यन्ति निहितम् अरतौ ॥

5.002.02

कम् एतं त्वं युवते कुमारम् पेषी बिभर्षि महिषी जजान ।
पूर्वीर् हि गर्भः शरदो ववर्धापश्यं जातं यद् असूत माता ॥

5.002.03

हिरण्यदन्तं शुचिवर्णम् आरात् क्षेत्राद् अपश्यम् आयुधा मिमानम् ।
ददानो अस्मा अमृतं विपृक्वत् किम् माम् अनिन्द्राः कृणवन्न् अनुक्थाः ॥

5.002.04

क्षेत्राद् अपश्यं सनुतश् चरन्तं सुमद् यूथं न पुरु शोभमानम् ।
न ता अगृभ्रन्न् अजनिष्ट हि षः पलिक्नीर् इद् युवतयो भवन्ति ॥

5.002.05

के मे मर्यकं वि यवन्त गोभिर् न येषां गोपा अरणश् चिद् आस ।
य ईं जगृभुर् अव ते सृजन्त्व् आजाति पश्व उप नश् चिकित्वान् ॥

5.002.06

वसां राजानं वसतिं जनानाम् अरातयो नि दधुर् मर्त्येषु ।
ब्रह्माण्य् अत्रेर् अव तं सृजन्तु निन्दितारो निन्द्यासो भवन्तु ॥

5.002.07

शुनश् चिच् छेपं निदितं सहस्राद् यूपाद् अमुञ्चो अशमिष्ट हि षः ।
एवास्मद् अग्ने वि मुमुग्धि पाशान् होतश् चिकित्व इह तू निषद्य ॥

5.002.08

हृणीयमानो अप हि मद् ऐयेः प्र मे देवानां व्रतपा उवाच ।
इन्द्रो विद्वाँ अनु हि त्वा चचक्ष तेनाहम् अग्ने अनुशिष्ट आगाम् ॥

5.002.09

वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा ।
प्रादेवीर् मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥

5.002.10

उत स्वानासो दिवि षन्त्व् अग्नेस् तिग्मायुधा रक्षसे हन्तवा उ ।
मदे चिद् अस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥

5.002.11

एतं ते स्तोमं तुविजात विप्रो रथं न धीरः स्वपा अतक्षम् ।
यदीद् अग्ने प्रति त्वं देव हर्याः स्वर्वतीर् अप एना जयेम ॥

5.002.12

तुविग्रीवो वृषभो वावृधानो ऽशत्र्व् अ1र्यः सम् अजाति वेदः ।
इतीमम् अग्निम् अमृता अवोचन् बर्हिष्मते मनवे शर्म यंसद् धविष्मते मनवे शर्म यंसत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc