भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 5.001

5.001.01

अबोध्य् अग्निः समिधा जनानाम् प्रति धेनुम् इवायतीम् उषासम् ।
यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ ॥

5.001.02

अबोधि होता यजथाय देवान् ऊर्ध्वो अग्निः सुमनाः प्रातर् अस्थात् ।
समिद्धस्य रुशद् अदर्शि पाजो महान् देवस् तमसो निर् अमोचि ॥

5.001.03

यद् ईं गणस्य रशनाम् अजीगः शुचिर् अङ्क्ते शुचिभिर् गोभिर् अग्निः ।
आद् दक्षिणा युज्यते वाजयन्त्य् उत्तानाम् ऊर्ध्वो अधयज् जुहूभिः ॥

5.001.04

अग्निम् अच्छा देवयताम् मनांसि चक्षूंषीव सूर्ये सं चरन्ति ।
यद् ईं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम् ॥

5.001.05

जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्व् अरुषो वनेषु ।
दमे-दमे सप्त रत्ना दधानो ऽग्निर् होता नि षसादा यजीयान् ॥

5.001.06

अग्निर् होता न्य् असीदद् यजीयान् उपस्थे मातुः सुरभा उ लोके ।
युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनाम् उत मध्य इद्धः ॥

5.001.07

प्र णु त्यं विप्रम् अध्वरेषु साधुम् अग्निं होतारम् ईळते नमोभिः ।
आ यस् ततान रोदसी ऋतेन नित्यम् मृजन्ति वाजिनं घृतेन ॥

5.001.08

मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः ।
सहस्रशृङ्गो वृषभस् तदोजा विश्वाँ अग्ने सहसा प्रास्य् अन्यान् ॥

5.001.09

प्र सद्यो अग्ने अत्य् एष्य् अन्यान् आविर् यस्मै चारुतमो बभूथ ।
ईळेन्यो वपुष्यो विभावा प्रियो विशाम् अतिथिर् मानुषीणाम् ॥

5.001.10

तुभ्यम् भरन्ति क्षितयो यविष्ठ बलिम् अग्ने अन्तित ओत दूरात् ।
आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत् ते अग्ने महि शर्म भद्रम् ॥

5.001.11

आद्य रथम् भानुमो भानुमन्तम् अग्ने तिष्ठ यजतेभिः समन्तम् ।
विद्वान् पथीनाम् उर्व् अ1न्तरिक्षम् एह देवान् हविरद्याय वक्षि ॥

5.001.12

अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।
गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc