भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.054

4.054.01

अभूद् देवः सविता वन्द्यो नु न इदानीम् अह्न उपवाच्यो नृभिः ।
वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् ॥

4.054.02

देवेभ्यो हि प्रथमं यज्ञियेभ्यो ऽमृतत्वं सुवसि भागम् उत्तमम् ।
आद् इद् दामानं सवितर् व्य् ऊर्णुषे ऽनूचीना जीविता मानुषेभ्यः ॥

4.054.03

अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती पूरुषत्वता ।
देवेषु च सवितर् मानुषेषु च त्वं नो अत्र सुवताद् अनागसः ॥

4.054.04

न प्रमिये सवितुर् दैव्यस्य तद् यथा विश्वम् भुवनं धारयिष्यति ।
यत् पृथिव्या वरिमन्न् आ स्वङ्गुरिर् वर्ष्मन् दिवः सुवति सत्यम् अस्य तत् ॥

4.054.05

इन्द्रज्येष्ठान् बृहद्भ्यः पर्वतेभ्यः क्षयाँ एभ्यः सुवसि पस्त्यावतः ।
यथा-यथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते ॥

4.054.06

ये ते त्रिर् अहन् सवितः सवासो दिवे-दिवे सौभगम् आसुवन्ति ।
इन्द्रो द्यावापृथिवी सिन्धुर् अद्भिर् आदित्यैर् नो अदितिः शर्म यंसत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc