ऋग्वेद · अध्याय 4.053
तद् देवस्य सवितुर् वार्यम् महद् वृणीमहे असुरस्य प्रचेतसः ।
छर्दिर् येन दाशुषे यच्छति त्मना तन् नो महाँ उद् अयान् देवो अक्तुभिः ॥
दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिम् प्रति मुञ्चते कविः ।
विचक्षणः प्रथयन्न् आपृणन्न् उर्व् अजीजनत् सविता सुम्नम् उक्थ्यम् ॥
आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे ।
प्र बाहू अस्राक् सविता सवीमनि निवेशयन् प्रसुवन्न् अक्तुभिर् जगत् ॥
अदाभ्यो भुवनानि प्रचाकशद् व्रतानि देवः सविताभि रक्षते ।
प्रास्राग् बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति ॥
त्रिर् अन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस् त्रीणि रोचना ।
तिस्रो दिवः पृथिवीस् तिस्र इन्वति त्रिभिर् व्रतैर् अभि नो रक्षति त्मना ॥
बृहत्सुम्नः प्रसवीता निवेशनो जगतः स्थातुर् उभयस्य यो वशी ।
स नो देवः सविता शर्म यच्छत्व् अस्मे क्षयाय त्रिवरूथम् अंहसः ॥
आगन् देव ऋतुभिर् वर्धतु क्षयं दधातु नः सविता सुप्रजाम् इषम् ।
स नः क्षपाभिर् अहभिश् च जिन्वतु प्रजावन्तं रयिम् अस्मे सम् इन्वतु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0