ऋग्वेद · अध्याय 4.052
प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः ।
दिवो अदर्शि दुहिता ॥
अश्वेव चित्रारुषी माता गवाम् ऋतावरी ।
सखाभूद् अश्विनोर् उषाः ॥
उत सखास्य् अश्विनोर् उत माता गवाम् असि ।
उतोषो वस्व ईशिषे ॥
यावयद्द्वेषसं त्वा चिकित्वित् सूनृतावरि ।
प्रति स्तोमैर् अभुत्स्महि ॥
प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः ।
ओषा अप्रा उरु ज्रयः ॥
आपप्रुषी विभावरि व्य् आवर् ज्योतिषा तमः ।
उषो अनु स्वधाम् अव ॥
आ द्यां तनोषि रश्मिभिर् आन्तरिक्षम् उरु प्रियम् ।
उषः शुक्रेण शोचिषा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0