ऋग्वेद · अध्याय 4.048
विहि होत्रा अवीता विपो न रायो अर्यः ।
वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥
निर्युवाणो अशस्तीर् नियुत्वाँ इन्द्रसारथिः ।
वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥
अनु कृष्णे वसुधिती येमाते विश्वपेशसा ।
वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥
वहन्तु त्वा मनोयुजो युक्तासो नवतिर् नव ।
वायव् आ चन्द्रेण रथेन याहि सुतस्य पीतये ॥
वायो शतं हरीणां युवस्व पोष्याणाम् ।
उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0