भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.043

4.043.01

क उ श्रवत् कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते ।
कस्येमां देवीम् अमृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम् ॥

4.043.02

को मृळाति कतम आगमिष्ठो देवानाम् उ कतमः शम्भविष्ठः ।
रथं कम् आहुर् द्रवदश्वम् आशुं यं सूर्यस्य दुहितावृणीत ॥

4.043.03

मक्षू हि ष्मा गच्छथ ईवतो द्यून् इन्द्रो न शक्तिम् परितक्म्यायाम् ।
दिव आजाता दिव्या सुपर्णा कया शचीनाम् भवथः शचिष्ठा ॥

4.043.04

का वाम् भूद् उपमातिः कया न आश्विना गमथो हूयमाना ।
को वाम् महश् चित् त्यजसो अभीक उरुष्यतम् माध्वी दस्रा न ऊती ॥

4.043.05

उरु वां रथः परि नक्षति द्याम् आ यत् समुद्राद् अभि वर्तते वाम् ।
मध्वा माध्वी मधु वाम् प्रुषायन् यत् सीं वाम् पृक्षो भुरजन्त पक्वाः ॥

4.043.06

सिन्धुर् ह वां रसया सिञ्चद् अश्वान् घृणा वयो ऽरुषासः परि ग्मन् ।
तद् ऊ षु वाम् अजिरं चेति यानं येन पती भवथः सूर्यायाः ॥

4.043.07

इहेह यद् वां समना पपृक्षे सेयम् अस्मे सुमतिर् वाजरत्ना ।
उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc