भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.042

4.042.01

मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर् विश्वे अमृता यथा नः ।
क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः ॥

4.042.02

अहं राजा वरुणो मह्यं तान्य् असुर्याणि प्रथमा धारयन्त ।
क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेर् उपमस्य वव्रेः ॥

4.042.03

अहम् इन्द्रो वरुणस् ते महित्वोर्वी गभीरे रजसी सुमेके ।
त्वष्टेव विश्वा भुवनानि विद्वान् सम् ऐरयं रोदसी धारयं च ॥

4.042.04

अहम् अपो अपिन्वम् उक्षमाणा धारयं दिवं सदन ऋतस्य ।
ऋतेन पुत्रो अदितेर् ऋतावोत त्रिधातु प्रथयद् वि भूम ॥

4.042.05

मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते ।
कृणोम्य् आजिम् मघवाहम् इन्द्र इयर्मि रेणुम् अभिभूत्योजाः ॥

4.042.06

अहं ता विश्वा चकरं नकिर् मा दैव्यं सहो वरते अप्रतीतम् ।
यन् मा सोमासो ममदन् यद् उक्थोभे भयेते रजसी अपारे ॥

4.042.07

विदुष् टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः ।
त्वं वृत्राणि शृण्विषे जघन्वान् त्वं वृताँ अरिणा इन्द्र सिन्धून् ॥

4.042.08

अस्माकम् अत्र पितरस् त आसन् सप्त ऋषयो दौर्गहे बध्यमाने ।
त आयजन्त त्रसदस्युम् अस्या इन्द्रं न वृत्रतुरम् अर्धदेवम् ॥

4.042.09

पुरुकुत्सानी हि वाम् अदाशद् धव्येभिर् इन्द्रावरुणा नमोभिः ।
अथा राजानं त्रसदस्युम् अस्या वृत्रहणं ददथुर् अर्धदेवम् ॥

4.042.10

राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः ।
तां धेनुम् इन्द्रावरुणा युवं नो विश्वाहा धत्तम् अनपस्फुरन्तीम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc