भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.041

4.041.01

इन्द्रा को वां वरुणा सुम्नम् आप स्तोमो हविष्माँ अमृतो न होता ।
यो वां हृदि क्रतुमाँ अस्मद् उक्तः पस्पर्शद् इन्द्रावरुणा नमस्वान् ॥

4.041.02

इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान् ।
स हन्ति वृत्रा समिथेषु शत्रून् अवोभिर् वा महद्भिः स प्र शृण्वे ॥

4.041.03

इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस् ता ।
यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते ॥

4.041.04

इन्द्रा युवं वरुणा दिद्युम् अस्मिन्न् ओजिष्ठम् उग्रा नि वधिष्टं वज्रम् ।
यो नो दुरेवो वृकतिर् दभीतिस् तस्मिन् मिमाथाम् अभिभूत्य् ओजः ॥

4.041.05

इन्द्रा युवं वरुणा भूतम् अस्या धियः प्रेतारा वृषभेव धेनोः ।
सा नो दुहीयद् यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥

4.041.06

तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश् च पौंस्ये ।
इन्द्रा नो अत्र वरुणा स्याताम् अवोभिर् दस्मा परितक्म्यायाम् ॥

4.041.07

युवाम् इद् ध्य् अवसे पूर्व्याय परि प्रभूती गविषः स्वापी ।
वृणीमहे सख्याय प्रियाय शूरा मंहिष्ठा पितरेव शम्भू ॥

4.041.08

ता वां धियो ऽवसे वाजयन्तीर् आजिं न जग्मुर् युवयूः सुदानू ।
श्रिये न गाव उप सोमम् अस्थुर् इन्द्रं गिरो वरुणम् मे मनीषाः ॥

4.041.09

इमा इन्द्रं वरुणम् मे मनीषा अग्मन्न् उप द्रविणम् इच्छमानाः ।
उपेम् अस्थुर् जोष्टार इव वस्वो रघ्वीर् इव श्रवसो भिक्षमाणाः ॥

4.041.10

अश्व्यस्य त्मना रथ्यस्य पुष्टेर् नित्यस्य रायः पतयः स्याम ।
ता चक्राणा ऊतिभिर् नव्यसीभिर् अस्मत्रा रायो नियुतः सचन्ताम् ॥

4.041.11

आ नो बृहन्ता बृहतीभिर् ऊती इन्द्र यातं वरुण वाजसातौ ।
यद् दिद्यवः पृतनासु प्रक्रीळान् तस्य वां स्याम सनितार आजेः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc