भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.040

4.040.01

दधिक्राव्ण इद् उ नु चर्किराम विश्वा इन् माम् उषसः सूदयन्तु ।
अपाम् अग्नेर् उषसः सूर्यस्य बृहस्पतेर् आङ्गिरसस्य जिष्णोः ॥

4.040.02

सत्वा भरिषो गविषो दुवन्यसच् छ्रवस्याद् इष उषसस् तुरण्यसत् ।
सत्यो द्रवो द्रवरः पतंगरो दधिक्रावेषम् ऊर्जं स्वर् जनत् ॥

4.040.03

उत स्मास्य द्रवतस् तुरण्यतः पर्णं न वेर् अनु वाति प्रगर्धिनः ।
श्येनस्येव ध्रजतो अङ्कसम् परि दधिक्राव्णः सहोर्जा तरित्रतः ॥

4.040.04

उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायाम् बद्धो अपिकक्ष आसनि ।
क्रतुं दधिक्रा अनु संतवीत्वत् पथाम् अङ्कांस्य् अन्व् आपनीफणत् ॥

4.040.05

हंसः शुचिषद् वसुर् अन्तरिक्षसद् धोता वेदिषद् अतिथिर् दुरोणसत् ।
नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc