भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.039

4.039.01

आशुं दधिक्रां तम् उ नु ष्टवाम दिवस् पृथिव्या उत चर्किराम ।
उच्छन्तीर् माम् उषसः सूदयन्त्व् अति विश्वानि दुरितानि पर्षन् ॥

4.039.02

महश् चर्कर्म्य् अर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः ।
यम् पूरुभ्यो दीदिवांसं नाग्निं ददथुर् मित्रावरुणा ततुरिम् ॥

4.039.03

यो अश्वस्य दधिक्राव्णो अकारीत् समिद्धे अग्ना उषसो व्युष्टौ ।
अनागसं तम् अदितिः कृणोतु स मित्रेण वरुणेना सजोषाः ॥

4.039.04

दधिक्राव्ण इष ऊर्जो महो यद् अमन्महि मरुतां नाम भद्रम् ।
स्वस्तये वरुणम् मित्रम् अग्निं हवामह इन्द्रं वज्रबाहुम् ॥

4.039.05

इन्द्रम् इवेद् उभये वि ह्वयन्त उदीराणा यज्ञम् उपप्रयन्तः ।
दधिक्राम् उ सूदनम् मर्त्याय ददथुर् मित्रावरुणा नो अश्वम् ॥

4.039.06

दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः ।
सुरभि नो मुखा करत् प्र ण आयूंषि तारिषत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc