ऋग्वेद · अध्याय 4.038
उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस् त्रसदस्युर् नितोशे ।
क्षेत्रासां ददथुर् उर्वरासां घनं दस्युभ्यो अभिभूतिम् उग्रम् ॥
उत वाजिनम् पुरुनिष्षिध्वानं दधिक्राम् उ ददथुर् विश्वकृष्टिम् ।
ऋजिप्यं श्येनम् प्रुषितप्सुम् आशुं चर्कृत्यम् अर्यो नृपतिं न शूरम् ॥
यं सीम् अनु प्रवतेव द्रवन्तं विश्वः पूरुर् मदति हर्षमाणः ।
पड्भिर् गृध्यन्तम् मेधयुं न शूरं रथतुरं वातम् इव ध्रजन्तम् ॥
यः स्मारुन्धानो गध्या समत्सु सनुतरश् चरति गोषु गच्छन् ।
आविरृजीको विदथा निचिक्यत् तिरो अरतिम् पर्य् आप आयोः ॥
उत स्मैनं वस्त्रमथिं न तायुम् अनु क्रोशन्ति क्षितयो भरेषु ।
नीचायमानं जसुरिं न श्येनं श्रवश् चाच्छा पशुमच् च यूथम् ॥
उत स्मासु प्रथमः सरिष्यन् नि वेवेति श्रेणिभी रथानाम् ।
स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत् किरणं ददश्वान् ॥
उत स्य वाजी सहुरिर् ऋतावा शुश्रूषमाणस् तन्वा समर्ये ।
तुरं यतीषु तुरयन्न् ऋजिप्यो ऽधि भ्रुवोः किरते रेणुम् ऋञ्जन् ॥
उत स्मास्य तन्यतोर् इव द्योर् ऋघायतो अभियुजो भयन्ते ।
यदा सहस्रम् अभि षीम् अयोधीद् दुर्वर्तुः स्मा भवति भीम ऋञ्जन् ॥
उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिम् आशोः ।
उतैनम् आहुः समिथे वियन्तः परा दधिक्रा असरत् सहस्रैः ॥
आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान ।
सहस्रसाः शतसा वाज्य् अर्वा पृणक्तु मध्वा सम् इमा वचांसि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0