ऋग्वेद · अध्याय 4.037
उप नो वाजा अध्वरम् ऋभुक्षा देवा यात पथिभिर् देवयानैः ।
यथा यज्ञम् मनुषो विक्ष्व् आ3सु दधिध्वे रण्वाः सुदिनेष्व् अह्नाम् ॥
ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः ।
प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः ॥
त्र्युदायं देवहितं यथा वः स्तोमो वाजा ऋभुक्षणो ददे वः ।
जुह्वे मनुष्वद् उपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम् ॥
पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः ।
इन्द्रस्य सूनो शवसो नपातो ऽनु वश् चेत्य् अग्रियम् मदाय ॥
ऋभुम् ऋभुक्षणो रयिं वाजे वाजिन्तमं युजम् ।
इन्द्रस्वन्तं हवामहे सदासातमम् अश्विनम् ॥
सेद् ऋभवो यम् अवथ यूयम् इन्द्रश् च मर्त्यम् ।
स धीभिर् अस्तु सनिता मेधसाता सो अर्वता ॥
वि नो वाजा ऋभुक्षणः पथश् चितन यष्टवे ।
अस्मभ्यं सूरयः स्तुता विश्वा आशास् तरीषणि ॥
तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् ।
सम् अश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0