ऋग्वेद · अध्याय 4.036
अनश्वो जातो अनभीशुर् उक्थ्यो3 रथस् त्रिचक्रः परि वर्तते रजः ।
महत् तद् वो देव्यस्य प्रवाचनं द्याम् ऋभवः पृथिवीं यच् च पुष्यथ ॥
रथं ये चक्रुः सुवृतं सुचेतसो ऽविह्वरन्तम् मनसस् परि ध्यया ।
ताँ ऊ न्व् अ1स्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि ॥
तद् वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन् महित्वनम् ।
जिव्री यत् सन्ता पितरा सनाजुरा पुनर् युवाना चरथाय तक्षथ ॥
एकं वि चक्र चमसं चतुर्वयं निश् चर्मणो गाम् अरिणीत धीतिभिः ।
अथा देवेष्व् अमृतत्वम् आनश श्रुष्टी वाजा ऋभवस् तद् व उक्थ्यम् ॥
ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यम् अजीजनन् नरः ।
विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासो ऽवथा स विचर्षणिः ॥
स वाज्य् अर्वा स ऋषिर् वचस्यया स शूरो अस्ता पृतनासु दुष्टरः ।
स रायस् पोषं स सुवीर्यं दधे यं वाजो विभ्वाँ ऋभवो यम् आविषुः ॥
श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस् तं जुजुष्टन ।
धीरासो हि ष्ठा कवयो विपश्चितस् तान् व एना ब्रह्मणा वेदयामसि ॥
यूयम् अस्मभ्यं धिषणाभ्यस् परि विद्वांसो विश्वा नर्याणि भोजना ।
द्युमन्तं वाजं वृषशुष्मम् उत्तमम् आ नो रयिम् ऋभवस् तक्षता वयः ॥
इह प्रजाम् इह रयिं रराणा इह श्रवो वीरवत् तक्षता नः ।
येन वयं चितयेमात्य् अन्यान् तं वाजं चित्रम् ऋभवो ददा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0