भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.029

4.029.01

आ नः स्तुत उप वाजेभिर् ऊती इन्द्र याहि हरिभिर् मन्दसानः ।
तिरश् चिद् अर्यः सवना पुरूण्य् आङ्गूषेभिर् गृणानः सत्यराधाः ॥

4.029.02

आ हि ष्मा याति नर्यश् चिकित्वान् हूयमानः सोतृभिर् उप यज्ञम् ।
स्वश्वो यो अभीरुर् मन्यमानः सुष्वाणेभिर् मदति सं ह वीरैः ॥

4.029.03

श्रावयेद् अस्य कर्णा वाजयध्यै जुष्टाम् अनु प्र दिशम् मन्दयध्यै ।
उद्वावृषाणो राधसे तुविष्मान् करन् न इन्द्रः सुतीर्थाभयं च ॥

4.029.04

अच्छा यो गन्ता नाधमानम् ऊती इत्था विप्रं हवमानं गृणन्तम् ।
उप त्मनि दधानो धुर्य् आ3शून् सहस्राणि शतानि वज्रबाहुः ॥

4.029.05

त्वोतासो मघवन्न् इन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः ।
भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc