भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.028

4.028.01

त्वा युजा तव तत् सोम सख्य इन्द्रो अपो मनवे सस्रुतस् कः ।
अहन्न् अहिम् अरिणात् सप्त सिन्धून् अपावृणोद् अपिहितेव खानि ॥

4.028.02

त्वा युजा नि खिदत् सूर्यस्येन्द्रश् चक्रं सहसा सद्य इन्दो ।
अधि ष्णुना बृहता वर्तमानम् महो द्रुहो अप विश्वायु धायि ॥

4.028.03

अहन्न् इन्द्रो अदहद् अग्निर् इन्दो पुरा दस्यून् मध्यंदिनाद् अभीके ।
दुर्गे दुरोणे क्रत्वा न याताम् पुरू सहस्रा शर्वा नि बर्हीत् ॥

4.028.04

विश्वस्मात् सीम् अधमाँ इन्द्र दस्यून् विशो दासीर् अकृणोर् अप्रशस्ताः ।
अबाधेथाम् अमृणतं नि शत्रून् अविन्देथाम् अपचितिं वधत्रैः ॥

4.028.05

एवा सत्यम् मघवाना युवं तद् इन्द्रश् च सोमोर्वम् अश्व्यं गोः ।
आदर्दृतम् अपिहितान्य् अश्ना रिरिचथुः क्षाश् चित् ततृदाना ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc