ऋग्वेद · अध्याय 4.024
का सुष्टुतिः शवसः सूनुम् इन्द्रम् अर्वाचीनं राधस आ ववर्तत् ।
ददिर् हि वीरो गृणते वसूनि स गोपतिर् निष्षिधां नो जनासः ॥
स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः ।
स यामन्न् आ मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् ॥
तम् इन् नरो वि ह्वयन्ते समीके रिरिक्वांसस् तन्वः कृण्वत त्राम् ।
मिथो यत् त्यागम् उभयासो अग्मन् नरस् तोकस्य तनयस्य सातौ ॥
क्रतूयन्ति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ ।
सं यद् विशो ऽववृत्रन्त युध्मा आद् इन् नेम इन्द्रयन्ते अभीके ॥
आद् इद् ध नेम इन्द्रियं यजन्त आद् इत् पक्तिः पुरोळाशं रिरिच्यात् ।
आद् इत् सोमो वि पपृच्याद् असुष्वीन् आद् इज् जुजोष वृषभं यजध्यै ॥
कृणोत्य् अस्मै वरिवो य इत्थेन्द्राय सोमम् उशते सुनोति ।
सध्रीचीनेन मनसाविवेनन् तम् इत् सखायं कृणुते समत्सु ॥
य इन्द्राय सुनवत् सोमम् अद्य पचात् पक्तीर् उत भृज्जाति धानाः ।
प्रति मनायोर् उचथानि हर्यन् तस्मिन् दधद् वृषणं शुष्मम् इन्द्रः ॥
यदा समर्यं व्य् अचेद् ऋघावा दीर्घं यद् आजिम् अभ्य् अख्यद् अर्यः ।
अचिक्रदद् वृषणम् पत्न्य् अच्छा दुरोण आ निशितं सोमसुद्भिः ॥
भूयसा वस्नम् अचरत् कनीयो ऽविक्रीतो अकानिषम् पुनर् यन् ।
स भूयसा कनीयो नारिरेचीद् दीना दक्षा वि दुहन्ति प्र वाणम् ॥
क इमं दशभिर् ममेन्द्रं क्रीणाति धेनुभिः ।
यदा वृत्राणि जङ्घनद् अथैनम् मे पुनर् ददत् ॥
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो3 न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0