भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.023

4.023.01

कथा महाम् अवृधत् कस्य होतुर् यज्ञं जुषाणो अभि सोमम् ऊधः ।
पिबन्न् उशानो जुषमाणो अन्धो ववक्ष ऋष्वः शुचते धनाय ॥

4.023.02

को अस्य वीरः सधमादम् आप सम् आनंश सुमतिभिः को अस्य ।
कद् अस्य चित्रं चिकिते कद् ऊती वृधे भुवच् छशमानस्य यज्योः ॥

4.023.03

कथा शृणोति हूयमानम् इन्द्रः कथा शृण्वन्न् अवसाम् अस्य वेद ।
का अस्य पूर्वीर् उपमातयो ह कथैनम् आहुः पपुरिं जरित्रे ॥

4.023.04

कथा सबाधः शशमानो अस्य नशद् अभि द्रविणं दीध्यानः ।
देवो भुवन् नवेदा म ऋतानां नमो जगृभ्वाँ अभि यज् जुजोषत् ॥

4.023.05

कथा कद् अस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं जुजोष ।
कथा कद् अस्य सख्यं सखिभ्यो ये अस्मिन् कामं सुयुजं ततस्रे ॥

4.023.06

किम् आद् अमत्रं सख्यं सखिभ्यः कदा नु ते भ्रात्रम् प्र ब्रवाम ।
श्रिये सुदृशो वपुर् अस्य सर्गाः स्व1र् ण चित्रतमम् इष आ गोः ॥

4.023.07

द्रुहं जिघांसन् ध्वरसम् अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका ।
ऋणा चिद् यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे ॥

4.023.08

ऋतस्य हि शुरुधः सन्ति पूर्वीर् ऋतस्य धीतिर् वृजिनानि हन्ति ।
ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥

4.023.09

ऋतस्य दृळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि ।
ऋतेन दीर्घम् इषणन्त पृक्ष ऋतेन गाव ऋतम् आ विवेशुः ॥

4.023.10

ऋतं येमान ऋतम् इद् वनोत्य् ऋतस्य शुष्मस् तुरया उ गव्युः ।
ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते ॥

4.023.11

नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो3 न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc