ऋग्वेद · अध्याय 4.022
यन् न इन्द्रो जुजुषे यच् च वष्टि तन् नो महान् करति शुष्म्य् आ चित् ।
ब्रह्म स्तोमम् मघवा सोमम् उक्था यो अश्मानं शवसा बिभ्रद् एति ॥
वृषा वृषन्धिं चतुरश्रिम् अस्यन्न् उग्रो बाहुभ्यां नृतमः शचीवान् ।
श्रिये परुष्णीम् उषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये ॥
यो देवो देवतमो जायमानो महो वाजेभिर् महद्भिश् च शुष्मैः ।
दधानो वज्रम् बाह्वोर् उशन्तं द्याम् अमेन रेजयत् प्र भूम ॥
विश्वा रोधांसि प्रवतश् च पूर्वीर् द्यौर् ऋष्वाज् जनिमन् रेजत क्षाः ।
आ मातरा भरति शुष्म्य् आ गोर् नृवत् परिज्मन् नोनुवन्त वाताः ॥
ता तू त इन्द्र महतो महानि विश्वेष्व् इत् सवनेषु प्रवाच्या ।
यच् छूर धृष्णो धृषता दधृष्वान् अहिं वज्रेण शवसाविवेषीः ॥
ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः ।
अधा ह त्वद् वृषमणो भियानाः प्र सिन्धवो जवसा चक्रमन्त ॥
अत्राह ते हरिवस् ता उ देवीर् अवोभिर् इन्द्र स्तवन्त स्वसारः ।
यत् सीम् अनु प्र मुचो बद्बधाना दीर्घाम् अनु प्रसितिं स्यन्दयध्यै ॥
पिपीळे अंशुर् मद्यो न सिन्धुर् आ त्वा शमी शशमानस्य शक्तिः ।
अस्मद्र्यक् छुशुचानस्य यम्या आशुर् न रश्मिं तुव्योजसं गोः ॥
अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहांसि ।
अस्मभ्यं वृत्रा सुहनानि रन्धि जहि वधर् वनुषो मर्त्यस्य ॥
अस्माकम् इत् सु शृणुहि त्वम् इन्द्रास्मभ्यं चित्राँ उप माहि वाजान् ।
अस्मभ्यं विश्वा इषणः पुरंधीर् अस्माकं सु मघवन् बोधि गोदाः ॥
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो3 न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0