भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.021

4.021.01

आ यात्व् इन्द्रो ऽवस उप न इह स्तुतः सधमाद् अस्तु शूरः ।
वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात् ॥

4.021.02

तस्येद् इह स्तवथ वृष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन् ।
यस्य क्रतुर् विदथ्यो3 न सम्राट् साह्वान् तरुत्रो अभ्य् अस्ति कृष्टीः ॥

4.021.03

आ यात्व् इन्द्रो दिव आ पृथिव्या मक्षू समुद्राद् उत वा पुरीषात् ।
स्वर्णराद् अवसे नो मरुत्वान् परावतो वा सदनाद् ऋतस्य ॥

4.021.04

स्थूरस्य रायो बृहतो य ईशे तम् उ ष्टवाम विदथेष्व् इन्द्रम् ।
यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अच्छ ॥

4.021.05

उप यो नमो नमसि स्तभायन्न् इयर्ति वाचं जनयन् यजध्यै ।
ऋञ्जसानः पुरुवार उक्थैर् एन्द्रं कृण्वीत सदनेषु होता ॥

4.021.06

धिषा यदि धिषण्यन्तः सरण्यान् सदन्तो अद्रिम् औशिजस्य गोहे ।
आ दुरोषाः पास्त्यस्य होता यो नो महान् संवरणेषु वह्निः ॥

4.021.07

सत्रा यद् ईम् भार्वरस्य वृष्णः सिषक्ति शुष्मः स्तुवते भराय ।
गुहा यद् ईम् औशिजस्य गोहे प्र यद् धिये प्रायसे मदाय ॥

4.021.08

वि यद् वरांसि पर्वतस्य वृण्वे पयोभिर् जिन्वे अपां जवांसि ।
विदद् गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो3 वहन्ति ॥

4.021.09

भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र ।
का ते निषत्तिः किम् उ नो ममत्सि किं नोद्-उद् उ हर्षसे दातवा उ ॥

4.021.10

एवा वस्व इन्द्रः सत्यः सम्राड् ढन्ता वृत्रं वरिवः पूरवे कः ।
पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय ते ऽवसो दैव्यस्य ॥

4.021.11

नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो3 न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc