भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.016

4.016.01

आ सत्यो यातु मघवाँ ऋजीषी द्रवन्त्व् अस्य हरय उप नः ।
तस्मा इद् अन्धः सुषुमा सुदक्षम् इहाभिपित्वं करते गृणानः ॥

4.016.02

अव स्य शूराध्वनो नान्ते ऽस्मिन् नो अद्य सवने मन्दध्यै ।
शंसात्य् उक्थम् उशनेव वेधाश् चिकितुषे असुर्याय मन्म ॥

4.016.03

कविर् न निण्यं विदथानि साधन् वृषा यत् सेकं विपिपानो अर्चात् ।
दिव इत्था जीजनत् सप्त कारून् अह्ना चिच् चक्रुर् वयुना गृणन्तः ॥

4.016.04

स्व1र् यद् वेदि सुदृशीकम् अर्कैर् महि ज्योती रुरुचुर् यद् ध वस्तोः ।
अन्धा तमांसि दुधिता विचक्षे नृभ्यश् चकार नृतमो अभिष्टौ ॥

4.016.05

ववक्ष इन्द्रो अमितम् ऋजीष्य् उ1भे आ पप्रौ रोदसी महित्वा ।
अतश् चिद् अस्य महिमा वि रेच्य् अभि यो विश्वा भुवना बभूव ॥

4.016.06

विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर् निकामैः ।
अश्मानं चिद् ये बिभिदुर् वचोभिर् व्रजं गोमन्तम् उशिजो वि वव्रुः ॥

4.016.07

अपो वृत्रं वव्रिवांसम् पराहन् प्रावत् ते वज्रम् पृथिवी सचेताः ।
प्रार्णांसि समुद्रियाण्य् ऐनोः पतिर् भवञ् छवसा शूर धृष्णो ॥

4.016.08

अपो यद् अद्रिम् पुरुहूत दर्दर् आविर् भुवत् सरमा पूर्व्यं ते ।
स नो नेता वाजम् आ दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर् गृणानः ॥

4.016.09

अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन् नाधमानम् ।
ऊतिभिस् तम् इषणो द्युम्नहूतौ नि मायावान् अब्रह्मा दस्युर् अर्त ॥

4.016.10

आ दस्युघ्ना मनसा याह्य् अस्तम् भुवत् ते कुत्सः सख्ये निकामः ।
स्वे योनौ नि षदतं सरूपा वि वां चिकित्सद् ऋतचिद् ध नारी ॥

4.016.11

यासि कुत्सेन सरथम् अवस्युस् तोदो वातस्य हर्योर् ईशानः ।
ऋज्रा वाजं न गध्यं युयूषन् कविर् यद् अहन् पार्याय भूषात् ॥

4.016.12

कुत्साय शुष्णम् अशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा ।
सद्यो दस्यून् प्र मृण कुत्स्येन प्र सूरश् चक्रं वृहताद् अभीके ॥

4.016.13

त्वम् पिप्रुम् मृगयं शूशुवांसम् ऋजिश्वने वैदथिनाय रन्धीः ।
पञ्चाशत् कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥

4.016.14

सूर उपाके तन्व1ं दधानो वि यत् ते चेत्य् अमृतस्य वर्पः ।
मृगो न हस्ती तविषीम् उषाणः सिंहो न भीम आयुधानि बिभ्रत् ॥

4.016.15

इन्द्रं कामा वसूयन्तो अग्मन् स्वर्मीळ्हे न सवने चकानाः ।
श्रवस्यवः शशमानास उक्थैर् ओको न रण्वा सुदृशीव पुष्टिः ॥

4.016.16

तम् इद् व इन्द्रं सुहवं हुवेम यस् ता चकार नर्या पुरूणि ।
यो मावते जरित्रे गध्यं चिन् मक्षू वाजम् भरति स्पार्हराधाः ॥

4.016.17

तिग्मा यद् अन्तर् अशनिः पताति कस्मिञ् चिच् छूर मुहुके जनानाम् ।
घोरा यद् अर्य समृतिर् भवात्य् अध स्मा नस् तन्वो बोधि गोपाः ॥

4.016.18

भुवो ऽविता वामदेवस्य धीनाम् भुवः सखावृको वाजसातौ ।
त्वाम् अनु प्रमतिम् आ जगन्मोरुशंसो जरित्रे विश्वध स्याः ॥

4.016.19

एभिर् नृभिर् इन्द्र त्वायुभिष् ट्वा मघवद्भिर् मघवन् विश्व आजौ ।
द्यावो न द्युम्नैर् अभि सन्तो अर्यः क्षपो मदेम शरदश् च पूर्वीः ॥

4.016.20

एवेद् इन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम् ।
नू चिद् यथा नः सख्या वियोषद् असन् न उग्रो ऽविता तनूपाः ॥

4.016.21

नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो3 न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc