भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.015

4.015.01

अग्निर् होता नो अध्वरे वाजी सन् परि णीयते ।
देवो देवेषु यज्ञियः ॥

4.015.02

परि त्रिविष्ट्य् अध्वरं यात्य् अग्नी रथीर् इव ।
आ देवेषु प्रयो दधत् ॥

4.015.03

परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् ।
दधद् रत्नानि दाशुषे ॥

4.015.04

अयं यः सृञ्जये पुरो दैववाते समिध्यते ।
द्युमाँ अमित्रदम्भनः ॥

4.015.05

अस्य घा वीर ईवतो ऽग्नेर् ईशीत मर्त्यः ।
तिग्मजम्भस्य मीळ्हुषः ॥

4.015.06

तम् अर्वन्तं न सानसिम् अरुषं न दिवः शिशुम् ।
मर्मृज्यन्ते दिवे-दिवे ॥

4.015.07

बोधद् यन् मा हरिभ्यां कुमारः साहदेव्यः ।
अच्छा न हूत उद् अरम् ॥

4.015.08

उत त्या यजता हरी कुमारात् साहदेव्यात् ।
प्रयता सद्य आ ददे ॥

4.015.09

एष वां देवाव् अश्विना कुमारः साहदेव्यः ।
दीर्घायुर् अस्तु सोमकः ॥

4.015.10

तं युवं देवाव् अश्विना कुमारं साहदेव्यम् ।
दीर्घायुषं कृणोतन ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc