भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.012

4.012.01

यस् त्वाम् अग्न इनधते यतस्रुक् त्रिस् ते अन्नं कृणवत् सस्मिन्न् अहन् ।
स सु द्युम्नैर् अभ्य् अस्तु प्रसक्षत् तव क्रत्वा जातवेदश् चिकित्वान् ॥

4.012.02

इध्मं यस् ते जभरच् छश्रमाणो महो अग्ने अनीकम् आ सपर्यन् ।
स इधानः प्रति दोषाम् उषासम् पुष्यन् रयिं सचते घ्नन्न् अमित्रान् ॥

4.012.03

अग्निर् ईशे बृहतः क्षत्रियस्याग्निर् वाजस्य परमस्य रायः ।
दधाति रत्नं विधते यविष्ठो व्य् आनुषङ् मर्त्याय स्वधावान् ॥

4.012.04

यच् चिद् धि ते पुरुषत्रा यविष्ठाचित्तिभिश् चकृमा कच् चिद् आगः ।
कृधी ष्व् अ1स्माँ अदितेर् अनागान् व्य् एनांसि शिश्रथो विष्वग् अग्ने ॥

4.012.05

महश् चिद् अग्न एनसो अभीक ऊर्वाद् देवानाम् उत मर्त्यानाम् ।
मा ते सखायः सदम् इद् रिषाम यच्छा तोकाय तनयाय शं योः ॥

4.012.06

यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः ।
एवो ष्व् अ1स्मन् मुञ्चता व्य् अंहः प्र तार्य् अग्ने प्रतरं न आयुः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc