ऋग्वेद · अध्याय 4.011
भद्रं ते अग्ने सहसिन्न् अनीकम् उपाक आ रोचते सूर्यस्य ।
रुशद् दृशे ददृशे नक्तया चिद् अरूक्षितं दृश आ रूपे अन्नम् ॥
वि षाह्य् अग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः ।
विश्वेभिर् यद् वावनः शुक्र देवैस् तन् नो रास्व सुमहो भूरि मन्म ॥
त्वद् अग्ने काव्या त्वन् मनीषास् त्वद् उक्था जायन्ते राध्यानि ।
त्वद् एति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ॥
त्वद् वाजी वाजम्भरो विहाया अभिष्टिकृज् जायते सत्यशुष्मः ।
त्वद् रयिर् देवजूतो मयोभुस् त्वद् आशुर् जूजुवाँ अग्ने अर्वा ॥
त्वाम् अग्ने प्रथमं देवयन्तो देवम् मर्ता अमृत मन्द्रजिह्वम् ।
द्वेषोयुतम् आ विवासन्ति धीभिर् दमूनसं गृहपतिम् अमूरम् ॥
आरे अस्मद् अमतिम् आरे अंह आरे विश्वां दुर्मतिं यन् निपासि ।
दोषा शिवः सहसः सूनो अग्ने यं देव आ चित् सचसे स्वस्ति ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0