भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.013

4.013.01

प्रत्य् अग्निर् उषसाम् अग्रम् अख्यद् विभातीनां सुमना रत्नधेयम् ।
यातम् अश्विना सुकृतो दुरोणम् उत् सूर्यो ज्योतिषा देव एति ॥

4.013.02

ऊर्ध्वम् भानुं सविता देवो अश्रेद् द्रप्सं दविध्वद् गविषो न सत्वा ।
अनु व्रतं वरुणो यन्ति मित्रो यत् सूर्यं दिव्य् आरोहयन्ति ॥

4.013.03

यं सीम् अकृण्वन् तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम् ।
तं सूर्यं हरितः सप्त यह्वीः स्पशं विश्वस्य जगतो वहन्ति ॥

4.013.04

वहिष्ठेभिर् विहरन् यासि तन्तुम् अवव्ययन्न् असितं देव वस्म ।
दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस् तमो अप्स्व् अ1न्तः ॥

4.013.05

अनायतो अनिबद्धः कथायं न्यङ्ङ् उत्तानो ऽव पद्यते न ।
कया याति स्वधया को ददर्श दिवः स्कम्भः समृतः पाति नाकम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc