भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.010

4.010.01

अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ।
ऋध्यामा त ओहैः ॥

4.010.02

अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः ।
रथीर् ऋतस्य बृहतो बभूथ ॥

4.010.03

एभिर् नो अर्कैर् भवा नो अर्वाङ् स्व1र् ण ज्योतिः ।
अग्ने विश्वेभिः सुमना अनीकैः ॥

4.010.04

आभिष् टे अद्य गीर्भिर् गृणन्तो ऽग्ने दाशेम ।
प्र ते दिवो न स्तनयन्ति शुष्माः ॥

4.010.05

तव स्वादिष्ठाग्ने संदृष्टिर् इदा चिद् अह्न इदा चिद् अक्तोः ।
श्रिये रुक्मो न रोचत उपाके ॥

4.010.06

घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् ।
तत् ते रुक्मो न रोचत स्वधावः ॥

4.010.07

कृतं चिद् धि ष्मा सनेमि द्वेषो ऽग्न इनोषि मर्तात् ।
इत्था यजमानाद् ऋतावः ॥

4.010.08

शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे ।
सा नो नाभिः सदने सस्मिन्न् ऊधन् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc