ऋग्वेद · अध्याय 4.009
अग्ने मृळ महाँ असि य ईम् आ देवयुं जनम् ।
इयेथ बर्हिर् आसदम् ॥
स मानुषीषु दूळभो विक्षु प्रावीर् अमर्त्यः ।
दूतो विश्वेषाम् भुवत् ॥
स सद्म परि णीयते होता मन्द्रो दिविष्टिषु ।
उत पोता नि षीदति ॥
उत ग्ना अग्निर् अध्वर उतो गृहपतिर् दमे ।
उत ब्रह्मा नि षीदति ॥
वेषि ह्य् अध्वरीयताम् उपवक्ता जनानाम् ।
हव्या च मानुषाणाम् ॥
वेषीद् व् अस्य दूत्य1ं यस्य जुजोषो अध्वरम् ।
हव्यम् मर्तस्य वोळ्हवे ॥
अस्माकं जोष्य् अध्वरम् अस्माकं यज्ञम् अङ्गिरः ।
अस्माकं शृणुधी हवम् ॥
परि ते दूळभो रथो ऽस्माँ अश्नोतु विश्वतः ।
येन रक्षसि दाशुषः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0