ऋग्वेद · अध्याय 4.008
दूतं वो विश्ववेदसं हव्यवाहम् अमर्त्यम् ।
यजिष्ठम् ऋञ्जसे गिरा ॥
स हि वेदा वसुधितिम् महाँ आरोधनं दिवः ।
स देवाँ एह वक्षति ॥
स वेद देव आनमं देवाँ ऋतायते दमे ।
दाति प्रियाणि चिद् वसु ॥
स होता सेद् उ दूत्यं चिकित्वाँ अन्तर् ईयते ।
विद्वाँ आरोधनं दिवः ॥
ते स्याम ये अग्नये ददाशुर् हव्यदातिभिः ।
य ईम् पुष्यन्त इन्धते ॥
ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे ।
ये अग्ना दधिरे दुवः ॥
अस्मे रायो दिवे-दिवे सं चरन्तु पुरुस्पृहः ।
अस्मे वाजास ईरताम् ॥
स विप्रश् चर्षणीनां शवसा मानुषाणाम् ।
अति क्षिप्रेव विध्यति ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0