भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 4.007

4.007.01

अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो अध्वरेष्व् ईड्यः ।
यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभ्वं विशे-विशे ॥

4.007.02

अग्ने कदा त आनुषग् भुवद् देवस्य चेतनम् ।
अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्व् ईड्यम् ॥

4.007.03

ऋतावानं विचेतसम् पश्यन्तो द्याम् इव स्तृभिः ।
विश्वेषाम् अध्वराणां हस्कर्तारं दमे-दमे ॥

4.007.04

आशुं दूतं विवस्वतो विश्वा यश् चर्षणीर् अभि ।
आ जभ्रुः केतुम् आयवो भृगवाणं विशे-विशे ॥

4.007.05

तम् ईं होतारम् आनुषक् चिकित्वांसं नि षेदिरे ।
रण्वम् पावकशोचिषं यजिष्ठं सप्त धामभिः ॥

4.007.06

तं शश्वतीषु मातृषु वन आ वीतम् अश्रितम् ।
चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् ॥

4.007.07

ससस्य यद् वियुता सस्मिन्न् ऊधन्न् ऋतस्य धामन् रणयन्त देवाः ।
महाँ अग्निर् नमसा रातहव्यो वेर् अध्वराय सदम् इद् ऋतावा ॥

4.007.08

वेर् अध्वरस्य दूत्यानि विद्वान् उभे अन्ता रोदसी संचिकित्वान् ।
दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि ॥

4.007.09

कृष्णं त एम रुशतः पुरो भाश् चरिष्ण्व् अ1र्चिर् वपुषाम् इद् एकम् ।
यद् अप्रवीता दधते ह गर्भं सद्यश् चिज् जातो भवसीद् उ दूतः ॥

4.007.10

सद्यो जातस्य ददृशानम् ओजो यद् अस्य वातो अनुवाति शोचिः ।
वृणक्ति तिग्माम् अतसेषु जिह्वां स्थिरा चिद् अन्ना दयते वि जम्भैः ॥

4.007.11

तृषु यद् अन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः ।
वातस्य मेळिं सचते निजूर्वन्न् आशुं न वाजयते हिन्वे अर्वा ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc