ऋग्वेद · अध्याय 4.006
ऊर्ध्व ऊ षु णो अध्वरस्य होतर् अग्ने तिष्ठ देवताता यजीयान् ।
त्वं हि विश्वम् अभ्य् असि मन्म प्र वेधसश् चित् तिरसि मनीषाम् ॥
अमूरो होता न्य् असादि विक्ष्व् अ1ग्निर् मन्द्रो विदथेषु प्रचेताः ।
ऊर्ध्वम् भानुं सवितेवाश्रेन् मेतेव धूमं स्तभायद् उप द्याम् ॥
यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद् देवतातिम् उराणः ।
उद् उ स्वरुर् नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः ॥
स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर् जुजुषाणो अस्थात् ।
पर्य् अग्निः पशुपा न होता त्रिविष्ट्य् एति प्रदिव उराणः ॥
परि त्मना मितद्रुर् एति होताग्निर् मन्द्रो मधुवचा ऋतावा ।
द्रवन्त्य् अस्य वाजिनो न शोका भयन्ते विश्वा भुवना यद् अभ्राट् ॥
भद्रा ते अग्ने स्वनीक संदृग् घोरस्य सतो विषुणस्य चारुः ।
न यत् ते शोचिस् तमसा वरन्त न ध्वस्मानस् तन्वी3 रेप आ धुः ॥
न यस्य सातुर् जनितोर् अवारि न मातरापितरा नू चिद् इष्टौ ।
अधा मित्रो न सुधितः पावको3 ऽग्निर् दीदाय मानुषीषु विक्षु ॥
द्विर् यम् पञ्च जीजनन् संवसानाः स्वसारो अग्निम् मानुषीषु विक्षु ।
उषर्बुधम् अथर्यो3 न दन्तं शुक्रं स्वासम् परशुं न तिग्मम् ॥
तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वञ्चः स्वञ्चः ।
अरुषासो वृषण ऋजुमुष्का आ देवतातिम् अह्वन्त दस्माः ॥
ये ह त्ये ते सहमाना अयासस् त्वेषासो अग्ने अर्चयश् चरन्ति ।
श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ॥
अकारि ब्रह्म समिधान तुभ्यं शंसात्य् उक्थं यजते व्य् ऊ धाः ।
होतारम् अग्निम् मनुषो नि षेदुर् नमस्यन्त उशिजः शंसम् आयोः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0