ऋग्वेद · अध्याय 4.005
वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद् भाः ।
अनूनेन बृहता वक्षथेनोप स्तभायद् उपमिन् न रोधः ॥
मा निन्दत य इमाम् मह्यं रातिं देवो ददौ मर्त्याय स्वधावान् ।
पाकाय गृत्सो अमृतो विचेता वैश्वानरो नृतमो यह्वो अग्निः ॥
साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस् तुविष्मान् ।
पदं न गोर् अपगूळ्हं विविद्वान् अग्निर् मह्यम् प्रेद् उ वोचन् मनीषाम् ॥
प्र ताँ अग्निर् बभसत् तिग्मजम्भस् तपिष्ठेन शोचिषा यः सुराधाः ।
प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि ॥
अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः ।
पापासः सन्तो अनृता असत्या इदम् पदम् अजनता गभीरम् ॥
इदम् मे अग्ने कियते पावकामिनते गुरुम् भारं न मन्म ।
बृहद् दधाथ धृषता गभीरं यह्वम् पृष्ठम् प्रयसा सप्तधातु ॥
तम् इन् न्व् ए3व समना समानम् अभि क्रत्वा पुनती धीतिर् अश्याः ।
ससस्य चर्मन्न् अधि चारु पृश्नेर् अग्रे रुप आरुपितं जबारु ॥
प्रवाच्यं वचसः किम् मे अस्य गुहा हितम् उप निणिग् वदन्ति ।
यद् उस्रियाणाम् अप वार् इव व्रन् पाति प्रियं रुपो अग्रम् पदं वेः ॥
इदम् उ त्यन् महि महाम् अनीकं यद् उस्रिया सचत पूर्व्यं गौः ।
ऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद् रघुयद् विवेद ॥
अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः ।
मातुष् पदे परमे अन्ति षद् गोर् वृष्णः शोचिषः प्रयतस्य जिह्वा ॥
ऋतं वोचे नमसा पृच्छ्यमानस् तवाशसा जातवेदो यदीदम् ।
त्वम् अस्य क्षयसि यद् ध विश्वं दिवि यद् उ द्रविणं यत् पृथिव्याम् ॥
किं नो अस्य द्रविणं कद् ध रत्नं वि नो वोचो जातवेदश् चिकित्वान् ।
गुहाध्वनः परमं यन् नो अस्य रेकु पदं न निदाना अगन्म ॥
का मर्यादा वयुना कद् ध वामम् अच्छा गमेम रघवो न वाजम् ।
कदा नो देवीर् अमृतस्य पत्नीः सूरो वर्णेन ततनन्न् उषासः ॥
अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः ।
अधा ते अग्ने किम् इहा वदन्त्य् अनायुधास आसता सचन्ताम् ॥
अस्य श्रिये समिधानस्य वृष्णो वसोर् अनीकं दम आ रुरोच ।
रुशद् वसानः सुदृशीकरूपः क्षितिर् न राया पुरुवारो अद्यौत् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0