ऋग्वेद · अध्याय 4.004
कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाँ इभेन ।
तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥
तव भ्रमास आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः ।
तपूंष्य् अग्ने जुह्वा पतंगान् असंदितो वि सृज विष्वग् उल्काः ॥
प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो अस्या अदब्धः ।
यो नो दूरे अघशंसो यो अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ॥
उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अ1मित्राँ ओषतात् तिग्महेते ।
यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥
ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने ।
अव स्थिरा तनुहि यातुजूनां जामिम् अजामिम् प्र मृणीहि शत्रून् ॥
स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुम् ऐरत् ।
विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभि द्यौत् ॥
सेद् अग्ने अस्तु सुभगः सुदानुर् यस् त्वा नित्येन हविषा य उक्थैः ।
पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद् इष्टिः ॥
अर्चामि ते सुमतिं घोष्य् अर्वाक् सं ते वावाता जरताम् इयं गीः ।
स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु द्यून् ॥
इह त्वा भूर्य् आ चरेद् उप त्मन् दोषावस्तर् दीदिवांसम् अनु द्यून् ।
क्रीळन्तस् त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् ॥
यस् त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन ।
तस्य त्राता भवसि तस्य सखा यस् त आतिथ्यम् आनुषग् जुजोषत् ॥
महो रुजामि बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्व् इयाय ।
त्वं नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो दमूनाः ॥
अस्वप्नजस् तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः ।
ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्व् अमूर ॥
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् ।
ररक्ष तान् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो नाह देभुः ॥
त्वया वयं सधन्य1स् त्वोतास् तव प्रणीत्य् अश्याम वाजान् ।
उभा शंसा सूदय सत्यताते ऽनुष्ठुया कृणुह्य् अह्रयाण ॥
अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय ।
दहाशसो रक्षसः पाह्य् अ1स्मान् द्रुहो निदो मित्रमहो अवद्यात् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0