भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.062

3.062.01

इमा उ वाम् भृमयो मन्यमाना युवावते न तुज्या अभूवन् ।
क्व1 त्यद् इन्द्रावरुणा यशो वां येन स्मा सिनम् भरथः सखिभ्यः ॥

3.062.02

अयम् उ वाम् पुरुतमो रयीयञ् छश्वत्तमम् अवसे जोहवीति ।
सजोषाव् इन्द्रावरुणा मरुद्भिर् दिवा पृथिव्या शृणुतं हवम् मे ॥

3.062.03

अस्मे तद् इन्द्रावरुणा वसु ष्याद् अस्मे रयिर् मरुतः सर्ववीरः ।
अस्मान् वरूत्रीः शरणैर् अवन्त्व् अस्मान् होत्रा भारती दक्षिणाभिः ॥

3.062.04

बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य ।
रास्व रत्नानि दाशुषे ॥

3.062.05

शुचिम् अर्कैर् बृहस्पतिम् अध्वरेषु नमस्यत ।
अनाम्य् ओज आ चके ॥

3.062.06

वृषभं चर्षणीनां विश्वरूपम् अदाभ्यम् ।
बृहस्पतिं वरेण्यम् ॥

3.062.07

इयं ते पूषन्न् आघृणे सुष्टुतिर् देव नव्यसी ।
अस्माभिस् तुभ्यं शस्यते ॥

3.062.08

तां जुषस्व गिरम् मम वाजयन्तीम् अवा धियम् ।
वधूयुर् इव योषणाम् ॥

3.062.09

यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
स नः पूषाविता भुवत् ॥

3.062.10

तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥

3.062.11

देवस्य सवितुर् वयं वाजयन्तः पुरंध्या ।
भगस्य रातिम् ईमहे ॥

3.062.12

देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः ।
नमस्यन्ति धियेषिताः ॥

3.062.13

सोमो जिगाति गातुविद् देवानाम् एति निष्कृतम् ।
ऋतस्य योनिम् आसदम् ॥

3.062.14

सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे ।
अनमीवा इषस् करत् ॥

3.062.15

अस्माकम् आयुर् वर्धयन्न् अभिमातीः सहमानः ।
सोमः सधस्थम् आसदत् ॥

3.062.16

आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् ।
मध्वा रजांसि सुक्रतू ॥

3.062.17

उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः ।
द्राघिष्ठाभिः शुचिव्रता ॥

3.062.18

गृणाना जमदग्निना योनाव् ऋतस्य सीदतम् ।
पातं सोमम् ऋतावृधा ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc