ऋग्वेद · अध्याय 3.054
इमम् महे विदथ्याय शूषं शश्वत् कृत्व ईड्याय प्र जभ्रुः ।
शृणोतु नो दम्येभिर् अनीकैः शृणोत्व् अग्निर् दिव्यैर् अजस्रः ॥
महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ् चरति प्रजानन् ।
ययोर् ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः ॥
युवोर् ऋतं रोदसी सत्यम् अस्तु महे षु णः सुविताय प्र भूतम् ।
इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम् ॥
उतो हि वाम् पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः ।
नरश् चिद् वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः ॥
को अद्धा वेद क इह प्र वोचद् देवाँ अच्छा पथ्या3 का सम् एति ।
ददृश्र एषाम् अवमा सदांसि परेषु या गुह्येषु व्रतेषु ॥
कविर् नृचक्षा अभि षीम् अचष्ट ऋतस्य योना विघृते मदन्ती ।
नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने ॥
समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर् जागरूके ।
उत स्वसारा युवती भवन्ती आद् उ ब्रुवाते मिथुनानि नाम ॥
विश्वेद् एते जनिमा सं विविक्तो महो देवान् बिभ्रती न व्यथेते ।
एजद् ध्रुवम् पत्यते विश्वम् एकं चरत् पतत्रि विषुणं वि जातम् ॥
सना पुराणम् अध्य् एम्य् आरान् महः पितुर् जनितुर् जामि तन् नः ।
देवासो यत्र पनितार एवैर् उरौ पथि व्युते तस्थुर् अन्तः ॥
इमं स्तोमं रोदसी प्र ब्रवीम्य् ऋदूदराः शृणवन्न् अग्निजिह्वाः ।
मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः ॥
हिरण्यपाणिः सविता सुजिह्वस् त्रिर् आ दिवो विदथे पत्यमानः ।
देवेषु च सवितः श्लोकम् अश्रेर् आद् अस्मभ्यम् आ सुव सर्वतातिम् ॥
सुकृत् सुपाणिः स्ववाँ ऋतावा देवस् त्वष्टावसे तानि नो धात् ।
पूषण्वन्त ऋभवो मादयध्वम् ऊर्ध्वग्रावाणो अध्वरम् अतष्ट ॥
विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः ।
सरस्वती शृणवन् यज्ञियासो धाता रयिं सहवीरं तुरासः ॥
विष्णुं स्तोमासः पुरुदस्मम् अर्का भगस्येव कारिणो यामनि ग्मन् ।
उरुक्रमः ककुहो यस्य पूर्वीर् न मर्धन्ति युवतयो जनित्रीः ॥
इन्द्रो विश्वैर् वीर्यै3ः पत्यमान उभे आ पप्रौ रोदसी महित्वा ।
पुरंदरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः ॥
नासत्या मे पितरा बन्धुपृच्छा सजात्यम् अश्विनोश् चारु नाम ।
युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैर् अदब्धा ॥
महत् तद् वः कवयश् चारु नाम यद् ध देवा भवथ विश्व इन्द्रे ।
सख ऋभुभिः पुरुहूत प्रियेभिर् इमां धियं सातये तक्षता नः ॥
अर्यमा णो अदितिर् यज्ञियासो ऽदब्धानि वरुणस्य व्रतानि ।
युयोत नो अनपत्यानि गन्तोः प्रजावान् नः पशुमाँ अस्तु गातुः ॥
देवानां दूतः पुरुध प्रसूतो ऽनागान् नो वोचतु सर्वताता ।
शृणोतु नः पृथिवी द्यौर् उतापः सूर्यो नक्षत्रैर् उर्व् अ1न्तरिक्षम् ॥
शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः ।
आदित्यैर् नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम् ॥
सदा सुगः पितुमाँ अस्तु पन्था मध्वा देवा ओषधीः सम् पिपृक्त ।
भगो मे अग्ने सख्ये न मृध्या उद् रायो अश्यां सदनम् पुरुक्षोः ॥
स्वदस्व हव्या सम् इषो दिदीह्य् अस्मद्र्य1क् सम् मिमीहि श्रवांसि ।
विश्वाँ अग्ने पृत्सु ताञ् जेषि शत्रून् अहा विश्वा सुमना दीदिही नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0