भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.053

3.053.01

इन्द्रापर्वता बृहता रथेन वामीर् इष आ वहतं सुवीराः ।
वीतं हव्यान्य् अध्वरेषु देवा वर्धेथां गीर्भिर् इळया मदन्ता ॥

3.053.02

तिष्ठा सु कम् मघवन् मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि ।
पितुर् न पुत्रः सिचम् आ रभे त इन्द्र स्वादिष्ठया गिरा शचीवः ॥

3.053.03

शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् ।
एदम् बर्हिर् यजमानस्य सीदाथा च भूद् उक्थम् इन्द्राय शस्तम् ॥

3.053.04

जायेद् अस्तम् मघवन् सेद् उ योनिस् तद् इत् त्वा युक्ता हरयो वहन्तु ।
यदा कदा च सुनवाम सोमम् अग्निष् ट्वा दूतो धन्वात्य् अच्छ ॥

3.053.05

परा याहि मघवन्न् आ च याहीन्द्र भ्रातर् उभयत्रा ते अर्थम् ।
यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य ॥

3.053.06

अपाः सोमम् अस्तम् इन्द्र प्र याहि कल्याणीर् जाया सुरणं गृहे ते ।
यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत् ॥

3.053.07

इमे भोजा अङ्गिरसो विरूपा दिवस् पुत्रासो असुरस्य वीराः ।
विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः ॥

3.053.08

रूपं-रूपम् मघवा बोभवीति मायाः कृण्वानस् तन्व1म् परि स्वाम् ।
त्रिर् यद् दिवः परि मुहूर्तम् आगात् स्वैर् मन्त्रैर् अनृतुपा ऋतावा ॥

3.053.09

महाँ ऋषिर् देवजा देवजूतो ऽस्तभ्नात् सिन्धुम् अर्णवं नृचक्षाः ।
विश्वामित्रो यद् अवहत् सुदासम् अप्रियायत कुशिकेभिर् इन्द्रः ॥

3.053.10

हंसा इव कृणुथ श्लोकम् अद्रिभिर् मदन्तो गीर्भिर् अध्वरे सुते सचा ।
देवेभिर् विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यम् मधु ॥

3.053.11

उप प्रेत कुशिकाश् चेतयध्वम् अश्वं राये प्र मुञ्चता सुदासः ।
राजा वृत्रं जङ्घनत् प्राग् अपाग् उदग् अथा यजाते वर आ पृथिव्याः ॥

3.053.12

य इमे रोदसी उभे अहम् इन्द्रम् अतुष्टवम् ।
विश्वामित्रस्य रक्षति ब्रह्मेदम् भारतं जनम् ॥

3.053.13

विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे ।
करद् इन् नः सुराधसः ॥

3.053.14

किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् ।
आ नो भर प्रमगन्दस्य वेदो नैचाशाखम् मघवन् रन्धया नः ॥

3.053.15

ससर्परीर् अमतिम् बाधमाना बृहन् मिमाय जमदग्निदत्ता ।
आ सूर्यस्य दुहिता ततान श्रवो देवेष्व् अमृतम् अजुर्यम् ॥

3.053.16

ससर्परीर् अभरत् तूयम् एभ्यो ऽधि श्रवः पाञ्चजन्यासु कृष्टिषु ।
सा पक्ष्या3 नव्यम् आयुर् दधाना याम् मे पलस्तिजमदग्नयो ददुः ॥

3.053.17

स्थिरौ गावौ भवतां वीळुर् अक्षो मेषा वि वर्हि मा युगं वि शारि ।
इन्द्रः पातल्ये ददतां शरीतोर् अरिष्टनेमे अभि नः सचस्व ॥

3.053.18

बलं धेहि तनूषु नो बलम् इन्द्रानळुत्सु नः ।
बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ॥

3.053.19

अभि व्ययस्व खदिरस्य सारम् ओजो धेहि स्पन्दने शिंशपायाम् ।
अक्ष वीळो वीळित वीळयस्व मा यामाद् अस्माद् अव जीहिपो नः ॥

3.053.20

अयम् अस्मान् वनस्पतिर् मा च हा मा च रीरिषत् ।
स्वस्त्य् आ गृहेभ्य आवसा आ विमोचनात् ॥

3.053.21

इन्द्रोतिभिर् बहुलाभिर् नो अद्य याच्छ्रेष्ठाभिर् मघवञ् छूर जिन्व ।
यो नो द्वेष्ट्य् अधरः सस् पदीष्ट यम् उ द्विष्मस् तम् उ प्राणो जहातु ॥

3.053.22

परशुं चिद् वि तपति शिम्बलं चिद् वि वृश्चति ।
उखा चिद् इन्द्र येषन्ती प्रयस्ता फेनम् अस्यति ॥

3.053.23

न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः ।
नावाजिनं वाजिना हासयन्ति न गर्दभम् पुरो अश्वान् नयन्ति ॥

3.053.24

इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर् न प्रपित्वम् ।
हिन्वन्त्य् अश्वम् अरणं न नित्यं ज्यावाजम् परि णयन्त्य् आजौ ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc