ऋग्वेद · अध्याय 3.052
धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् ।
इन्द्र प्रातर् जुषस्व नः ॥
पुरोळाशम् पचत्यं जुषस्वेन्द्रा गुरस्व च ।
तुभ्यं हव्यानि सिस्रते ॥
पुरोळाशं च नो घसो जोषयासे गिरश् च नः ।
वधूयुर् इव योषणाम् ॥
पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः ।
इन्द्र क्रतुर् हि ते बृहन् ॥
माध्यंदिनस्य सवनस्य धानाः पुरोळाशम् इन्द्र कृष्वेह चारुम् ।
प्र यत् स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिर् ईट्टे ॥
तृतीये धानाः सवने पुरुष्टुत पुरोळाशम् आहुतम् मामहस्व नः ।
ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः ॥
पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः ।
अपूपम् अद्धि सगणो मरुद्भिः सोमम् पिब वृत्रहा शूर विद्वान् ॥
प्रति धाना भरत तूयम् अस्मै पुरोळाशं वीरतमाय नृणाम् ।
दिवे-दिवे सदृशीर् इन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0