भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 3.051

3.051.01

चर्षणीधृतम् मघवानम् उक्थ्य1म् इन्द्रं गिरो बृहतीर् अभ्य् अनूषत ।
वावृधानम् पुरुहूतं सुवृक्तिभिर् अमर्त्यं जरमाणं दिवे-दिवे ॥

3.051.02

शतक्रतुम् अर्णवं शाकिनं नरं गिरो म इन्द्रम् उप यन्ति विश्वतः ।
वाजसनिम् पूर्भिदं तूर्णिम् अप्तुरं धामसाचम् अभिषाचं स्वर्विदम् ॥

3.051.03

आकरे वसोर् जरिता पनस्यते ऽनेहसः स्तुभ इन्द्रो दुवस्यति ।
विवस्वतः सदन आ हि पिप्रिये सत्रासाहम् अभिमातिहनं स्तुहि ॥

3.051.04

नृणाम् उ त्वा नृतमं गीर्भिर् उक्थैर् अभि प्र वीरम् अर्चता सबाधः ।
सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे ॥

3.051.05

पूर्वीर् अस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति ।
इन्द्राय द्याव ओषधीर् उतापो रयिं रक्षन्ति जीरयो वनानि ॥

3.051.06

तुभ्यम् ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व ।
बोध्य् आ3पिर् अवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः ॥

3.051.07

इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य ।
तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ॥

3.051.08

स वावशान इह पाहि सोमम् मरुद्भिर् इन्द्र सखिभिः सुतं नः ।
जातं यत् त्वा परि देवा अभूषन् महे भराय पुरुहूत विश्वे ॥

3.051.09

अप्तूर्ये मरुत आपिर् एषो ऽमन्दन्न् इन्द्रम् अनु दातिवाराः ।
तेभिः साकम् पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे ॥

3.051.10

इदं ह्य् अन्व् ओजसा सुतं राधानाम् पते ।
पिबा त्व् अ1स्य गिर्वणः ॥

3.051.11

यस् ते अनु स्वधाम् असत् सुते नि यच्छ तन्वम् ।
स त्वा ममत्तु सोम्यम् ॥

3.051.12

प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः ।
प्र बाहू शूर राधसे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc