ऋग्वेद · अध्याय 3.050
इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् ।
ओरुव्यचाः पृणताम् एभिर् अन्नैर् आस्य हविस् तन्व1ः कामम् ऋध्याः ॥
आ ते सपर्यू जवसे युनज्मि ययोर् अनु प्रदिवः श्रुष्टिम् आवः ।
इह त्वा धेयुर् हरयः सुशिप्र पिबा त्व् अ1स्य सुषुतस्य चारोः ॥
गोभिर् मिमिक्षुं दधिरे सुपारम् इन्द्रं ज्यैष्ठ्याय धायसे गृणानाः ।
मन्दानः सोमम् पपिवाँ ऋजीषिन् सम् अस्मभ्यम् पुरुधा गा इषण्य ॥
इमं कामम् मन्दया गोभिर् अश्वैश् चन्द्रवता राधसा पप्रथश् च ।
स्वर्यवो मतिभिस् तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥
शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0