ऋग्वेद · अध्याय 3.049
शंसा महाम् इन्द्रं यस्मिन् विश्वा आ कृष्टयः सोमपाः कामम् अव्यन् ।
यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः ॥
यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् ।
इनतमः सत्वभिर् यो ह शूषैः पृथुज्रया अमिनाद् आयुर् दस्योः ॥
सहावा पृत्सु तरणिर् नार्वा व्यानशी रोदसी मेहनावान् ।
भगो न कारे हव्यो मतीनाम् पितेव चारुः सुहवो वयोधाः ॥
धर्ता दिवो रजसस् पृष्ट ऊर्ध्वो रथो न वायुर् वसुभिर् नियुत्वान् ।
क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् ॥
शुनं हुवेम मघवानम् इन्द्रम् अस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तम् उग्रम् ऊतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0